
ॐ यश्छन्द’सामृषभो विश्वरू’पः | छन्दोभ्योऽध्यमृता”थ्सम्बभूव’ |
स मेन्द्रो’ मेधया” स्पृणोतु | अमृत’स्य देवधार’णो भूयासम् |
शरी’रं मे विच’र्षणम् | जिह्वा मे मधु’मत्तमा |
कर्णा”भ्यां भूरिविश्रु’वम् | ब्रह्म’णः कोशो’ऽसि मेधया पि’हितः |
श्रुतं मे’ गोपाय ||ॐ शान्तिः शान्तिः शान्तिः’ ||
मेधां म इन्द्रो’ ददातु मेधां देवी सर’स्वती |
मेधां मे’ अश्विना’वुभा-वाध’त्तां पुष्क’रस्रजा |
अप्सरासु’ च या मेधा गं’धर्वेषु’ च यन्मनः’ |
दैवीं” मेधा सर’स्वती सा मां” मेधा सुरभि’र्जुषताग् स्वाहा” ||
आमां” मेधा सुरभि’र्विश्वरू’पा हिर’ण्यवर्णा जग’ती जगम्या |
ऊर्ज’स्वती पय’सा पिन्व’माना सा मां” मेधा सुप्रती’का जुषन्ताम् ||
मयि’ मेधां मयि’ प्रजां मय्यग्निस्तेजो’ दधातु
मयि’ मेधां मयि’ प्रजां मयीन्द्र’ इंद्रियं द’धातु
मयि’ मेधां मयि’ प्रजां मयि सूर्यो भ्राजो’ दधातु ||
ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ ब्रह्मप॒त्नी च॑ धीमहि। तन्नो॑ वाणी प्रचो॒दया᳚त्।
ॐ हंस हंसाय’ विद्महे’ परमहंसाय’ धीमहि | तन्नो’ हंसः प्रचोदया”त् ||